मनसा सततं स्मरणीयम् । manasa satatam smaraniyam... lyrics.

मनसा सततं स्मरणीयम् वचसा सततं वदनीयम् लोकहितं मम करणीयम् ॥ ॥ लोकहितं ॥ न भोगभवने रमणीयम् न च सुखशयने शयनीयम् । अहर्निशं जागरणीयम् लोकहितं मम करणीयम् ॥ ॥१॥ न जातु दु:खं गणनीयम् न च निजसौख्यं मननीयम् । कार्यक्षेत्रे त्वरणीयम् लोकहितं मम करणीयम् ॥ ॥२॥ दु:खसागरे तरणीयम् कष्टपर्वते चरणीयम् । विपत्तिविपिने भ्रमणीयम् लोकहितं मम करणीयम् ॥ ॥३॥ गहनारण्ये घनान्धकारे बन्धुजना ये स्थिता गह्वरे । तत्र मया सञ्चरणीयम् लोकहितं मम करणीयम् ॥४॥ #संस्कृतगीतम् #samskritabharati #संस्कृतभारती #संस्कृतगीतानि #संस्कृतम् #sanskrit #sanskritsong #newsong #oldisgold #भागीरथी #online_sanskrit_pathasala
Back to Top